________________
[८] 'एयम्मि 'त्ति । 'एतस्मिन् 'निरालम्बनध्याने लब्धे मोहसागरस्य-दुरन्तरागादिभावसंतानसमुद्रस्य तरणं भवति । ततश्च ' श्रेणिः ' क्षपकश्रेणिनियूँढा भवति, सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्रज्ञातः समाधिस्तीर्थान्तरीयैर्गीयते, एतदपि सम्यग्-यथावत् प्रकर्षेण-सवितर्कनिश्चयात्मकत्वेनात्मपर्यायाणामर्थानां च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नानुपपन्नम् । ततश्च ' केवलमेव ' केवलज्ञानमेव भवति । अयं चासम्प्रज्ञातः समाधिरिति परैगीयते, तत्रापि अर्थतो नानुपपत्तिा, केवलज्ञानेऽशेषवृत्त्यादिनिरोधालब्धात्मस्वभावस्य मानसविज्ञानवैकल्यादसम्प्रज्ञातत्वसिद्धेः। अयं चासंप्रज्ञातः समाधिधिा-सयोगिकेवलिभावी अयोगिकेवलिभावी च, आयो मनोवृत्तीनां विकल्पज्ञानरूपारणामत्यन्तोच्छेदात्सम्पद्यते । अन्त्यश्च परिस्पन्दरूपाणाम् , अयं च केवलज्ञानस्य फलभूतः । एतदेवाह-'ततश्च' केवलज्ञानलाभादनन्तरं च 'अयोगयोगः' वृत्तिबीजदाहायो
१ “ वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ।" (पातं. योग० १-१७)। २ "विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (पातं० १-१८)" यदभ्यासपूर्व चित्तं निरालम्बनमभावप्राप्तभिव भवतीत्येष निर्वाजः समाधिरसम्प्रातः॥" ' इति १-१८ सूत्रभाष्ये व्यासर्षिः।