________________
[ ८७ ]
गताभिधानं स्यादिति, मैवम्, यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतवलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिगतिशक्तियोगाच्च निरालम्बनमेव । श्रत एवावस्थात्रयभावने रुपातीतसिद्धगुणप्रणिधान वेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहा - रनय सिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात् तस्यैव च मोहनाशकत्वात् । श्राह च - " जो जो अरिहंते, दव्वतगुणत्तपञ्जयत्तेहिं । सो जाइ अप्पाणं, मोहो खलु जाइ तस्स लयं ॥ १ ॥ " इति । तस्माद्रूपिद्रव्यविपयं ध्यानं सालम्बनं रूपिविषयं च निरालम्बनमिति स्थितम् ॥ १६ ॥ ser निरालम्बनध्यानस्यैव फलपरम्परामाहएयम्मि मोहसागरतरणं सेढी य केवलं चेव । तत्तो अजोगजोगो, कमेण परमं च निव्वाणं ॥२०॥
१ " या जानात्यर्हतो द्रव्यत्वगुणत्वपर्यायत्यैः । स जाना
33
त्यात्मानं मोहः खलु तस्य याति लयम् ॥