________________
[८६] अलब्धप्रतिष्ठः सर्वोत्तमस्य योगस्य-अयोगाख्यस्य अनुजःपृष्ठभावी ॥' तदर्शनं ' परतत्त्वदर्शनं 'एतच्च' परतत्त्वदर्शनं ' केवलं ' सम्पूर्ण ' तत् ' प्रसिद्धं यत् तत् केवलज्ञानं 'परं' प्रकृष्टं ज्योतिः स्यात् । अत्र कस्यचिदाशङ्का-इपुपातज्ञातात्परतत्त्वदर्शने सति केवलज्ञानोत्तरमनालम्बनयोगप्रवृत्तिर्मा भूद, सालम्वनयोगप्रवृत्तिस्तु विशिष्टतरा काचित्स्यादेव, केवलज्ञानस्य लन्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात्, मैवम् , केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकावाया अविपयतया ध्यानानालम्बनत्वात्क्षपकश्रेणिकालसम्भविविशिष्टतरयोगप्रयत्नाभावादावर्जीकरणोत्तरयोगनिरोधप्रयत्नाभावाचार्वाक्तनकेवलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् । आह च महाभाष्यकार:" सुदढप्पयत्तवावारणं गिरोहो व विजमाणाणं । भाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ॥१॥" (विशेषावश्यक-गाथा ३०७१ ) इति । स्यादेतद्, यदि क्षपकश्रेणिद्वितीयापूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिवन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसं
१" सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रम् ।।"