________________
[ ८५ ]
नयोगः, प्रोक्तस्तददर्शनं यावत् ॥ १ ॥ " ( पो० १५ - ८ ) तत्र ' परतत्त्वे द्रष्टुमिच्छा दिदृक्षा ' इति ' एवंस्वरूपा श्रसङ्गशक्त्या - निरभिष्वङ्गाविच्छिन्नप्रवृत्त्या आढया-पूर्णा 'सा परमात्मदर्शनेच्छा अनालम्बनयोगः, परतत्रस्यादर्शनं - अनुपलम्भं यावत्, परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । अलब्धपरतत्त्वंस्तल्लाभाय ध्यानरूपेण प्रवृत्तो नालम्वनयोगः, स च क्षपकेण धनुर्धरेण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु ध्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलज्ञानप्रकाश एव भवति, न त्वनालम्वनयोगो (ग) व्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः । आह च - " तत्राप्रतिष्ठितोऽयं, यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु, तेनानालम्बनो गीतः ॥ १ ॥ द्रागस्मात्तद्दर्शनमिपुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तत् : ज्ञानं यत्तत्परं ज्योतिः ॥ २ ॥ " ( पो० १५ - ६, १०) तत्र ' परतत्त्वे ' अप्रतिष्ठितः
"
*
१ " प्रोक्तस्तद्दर्शनं यावत् " इति पाठानुसारेण यशोभद्रसूरिणा व्याख्याकृता । तथाहि – " प्रोक्तस्तत्त्ववेदिभिः तस्य - परतत्त्वस्य दर्शनमुपलम्भस्तद्यावत् " इति ।