________________
.
[४] ग्रन्थकृतैव-" सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥ १॥" (१४-१) सहालम्बनेल-चनुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः । पालम्बनात्-विषयभावापतिरूपानिष्क्रान्तो निरालम्बनः, यो हि च्छमस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । जिनरूपस्य-समवसरणस्थस्य ध्यान खलु 'आद्यः' सालम्बनो योगः । तस्यैव-जिनस्य तत्त्वं-केवलजीवप्रदेशसङ्घातरूपं के वलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, 'तु:' एवार्थे, 'अपरः' अनालम्बनः, अत्रारूपितत्वस्य स्फुटविषयत्त्वाभावादनालम्बनत्वमुक्तम् । अधिकृतग्रन्थगाथायां च विषयतामात्रेण तस्यालम्बनत्वमनूद्यापि तद्विषययोगस्येपदालम्बनत्वादनालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । अयं चानालम्बनयोगः "शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः। शक्युरेकाद्विशेषेण, सामर्थ्याख्योयमुत्तमः ॥१॥" (योग समु० ३ श्लोक) इति श्लोकोक्तस्वरूपक्षपकश्रेणीद्वितीयापूर्वकरणभाविक्षायोपशमिकक्षा- . न्त्यादिधर्मसन्न्यासरूपसामर्थ्ययोगतो निस्सङ्गानवरतप्रवृत्ता या परतत्वदर्शनेच्छा तल्लक्षणो मन्तव्यः, आह च-“सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशक्त्याढया। साऽनालम्ब