________________
[ ८३]
१० - ८) इति ॥ 'खलु' इति निश्चये । एतेष्वनुष्ठानभेदेषु 'एष:' एतदः समीपतरवृत्ति (वर्त्ति) वाचकत्वात्समीपाभिहिताऽसङ्गानुष्ठानात्मा चरमो योगोऽनालम्बनयोगो भवति, सङ्गत्या - गस्यैवानालम्बनलक्षणत्वादिति भावः ॥ १८ ॥ श्रालम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाह - आलंबणं पि एयं, रूवमरूवी य इत्थ परसुति । तग्गुणपरिणइरूवो, सुहुंमोऽणालवणो नाम ॥ १९ ॥
:
• आलंवणं पि 'ति । श्रालम्बनमपि ' एतत् ' प्राकरणिकबुद्धिसंनिहितं ' अत्र ' योगविचारे ' रूपि ' समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, 'च' पुन: ' अरूपी परमः ' सिद्धात्मा इत्येवं द्विविधम् । तत्र तस्य - श्ररूपिपरमात्मलक्षणस्यालम्बनस्य ये गुणाः - केवलज्ञानादयस्तेषां परियतिः - समापत्तिलक्षणा तया रूप्यत इति तद्गुणपरिणतिरूपः सूक्ष्मोऽतीन्द्रियविषयत्वादनालम्बनो नाम योगः, अरूप्यालम्वनस्येपदालम्बनत्वेन " अलवणा यवागूः " इत्यत्रेवात्र नव्पदप्रवृत्तेरविरोधात् । " सुमो लंबणो नाम " त्ति क्वचित्पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः, उक्तं चात्राधिकारे चतुर्दशषोडशके
१ " हुमो आलंबणो " इति पाठान्तरम् ।