________________
[ ८० ] इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीतार्थैः सिद्धान्तविधिप्ररूपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्याणसम्पादकत्वात्, उक्तं च गच्छाचारप्रकीर्णके – “ जंड विण सकं काउं, सम्मं जिणभासियं श्रणुट्ठाणं । तो सम्मं भासिज्जा, जह भणियं खीणरागेहिं ॥ १ ॥ सन्नो वि विहारे, कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं, उववृहंतो परूचिंतो ||२||" (गाथा ३२-३४) इति । ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तनव्यवहारमुत्सृजन्ति श्रन्यं च विशुद्धं व्यवहारं संपादयितुं न शक्नुवन्ति ते बीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति । विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वदामः ॥ १६ ॥ अथेमं प्रसक्तमर्थं संक्षिपन् प्रकृतं निगमयन्नाह - कयमित्थ पसंगेणं, ठाणाइसु जत्तसंगयाणं तु । हियमेयं विन्नेयं, सदणुट्ठाणत्तणेण तहा ॥ १७ ॥
' — कयमित्थ ' त्ति । — कृतं ' प्रर्याप्तं ' अत्र प्रसङ्गेन ' प्ररूपणीयमध्ये स्मृतार्थविस्तारणेन ' स्थानादिषु ' प्रदर्शित
१ " यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानम् । तत्सम्यग्भाषयेद्यथा भणितं क्षीणरागैः । अवसन्नोऽपि विहारे · शोधयति सुलभबोधिश्च । चरणकरणं विशुद्धमुपवृहन् प्ररूप्रायश्चित्तं
""