________________
[८१] योगभेदेषु ' यत्नसंगतानां तु' प्रयत्नवतामेव 'एतत् ' चैत्यवन्दनाद्यनुष्ठानं 'हितं ' मोक्षसाधकं विज्ञेयम् , चैत्यवन्दनगोचरस्थानादियोगस्य मोक्षहेतुत्वे तस्यापि तत्प्रयोजकत्वादिति भावः । ' तथा ' इति प्रकारान्तरसमुच्चये । सदनुष्ठानत्वेन,योगपरिणामकृतपुण्यानुबन्धिपुण्यनिक्षेपाद्विशुद्धचित्तसंस्काररूपया प्रशान्तवाहितया सहितस्य चैत्यवन्दनादेः स्वातन्त्र्येणैव मोक्षहेतुत्वादिति भावः । प्रकारभेदोऽयं नयमदकृत इति न कश्चिद्दोषः ॥ १७ ॥ सदनुष्ठानभेदानेव प्ररूपयंश्चरमतभेदे चरमयोगभेदमन्तर्भावयन्नाहएयं च पीइभत्तागमाणुगं तह असंगयाजुत्तं । नेयं चउन्विहं खल्लु, एसो चरमो हवइ जोगो॥१८॥
'एयं च 'ति । 'एतच ' सदनुष्ठानं प्रीतिभक्त्यागमाननुगच्छति तत् प्रीतिभक्क्यागमानुगं-प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानं चेति त्रिभेदं तथाऽसंगतया युक्तं असंगानुष्ठानमित्येवं चतुर्विधं ज्ञेयम् । एतेषां भेदानामिदं स्वरूपम्-यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते. शेषत्यागेन च यत्क्रियते तत्प्रीत्यनुष्ठानम् , आह च" यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः। शेपत्यागेन करोति यच तत्प्रीत्यनुष्ठानम् ॥ १॥" (पो० १०-३ ) एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या