________________
[७] वृत्तावप्यनाभोगादिनाविधिदोषश्छमस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः । प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदापि वा प्रज्ञापनीयस्याविधिदोषो निरनुवन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय, विधिबहुमानाद् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादनपराणीति न कश्चिद्दोषः । अवोचाम चाध्यात्मसारप्रकरणे-" अशद्धा पि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । तानं रसानुवेधेन, स्वर्णत्वमुपगच्छति ॥१॥" (२-१६ श्लो.) यस्तु विध्यबहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधिव्यवस्थापनरसिकस्तदकर्ताऽपि भव्य एव, तदुक्तं योगदृष्टिसमुच्चये ग्रन्थकृतैव-" तात्त्विका पक्षपातश्च, भावशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥१॥" (२२१ श्लो०) इत्यादि । न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणतिप्रयोज्यविधिव्यवहाराभावादस्मदादीनामिदानीन्तनमावश्यकाद्याचरणमकर्तव्यमेव प्रसक्तमिति शङ्कनीयम् , विकलानुष्ठानानामपि "जा जा हविज जयणा, सा सा से णिजरा होइ।" इत्यादिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसंपादकतदितरस्यापि बालाधनुग्रहसम्पादकत्वेनाकर्तव्यत्वासिद्धेः।
१ " मधिगच्छति " इत्यपि । २ " या या भवेद्यतना सा सा तस्य निर्जरा भवति"।
-
-
-