________________
[७८] साधुसमयसद्भावश्चायम्-" लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत्तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥ १॥ (ज्ञानसारे २३-४) स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । सुश्रद्धास्तेष्वपि स्तोकाः, स्तोकास्तेध्वपि सक्रियाः ॥२॥ श्रेयोर्थिनो हि भूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजा, स्तोकाश्च स्वात्मशोधकाः ॥ ३ ।। (ज्ञानसारे २३-५ ) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः। किमज्ञसाथैः ? शतमप्यन्धानां नैव पश्यति ॥४॥ यत्संविग्नजनाचीर्ण, श्रुतवाक्यैरवाधितम् । तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् ।।।। यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहा रस्तदन्धसंततिसम्भवम् ॥ ६ ॥ आकल्पव्यवहारार्थ; श्रुतं न व्यवहारकम् । इतिवतुर्महत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् ।। ७ ।। तसाच्छुतानुसारेण, विध्येकरसिकैर्जनः। संविमजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥८॥" ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा “अविहिकया वरमकयं, असूयवयणं भणंति सम्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुग्रं ॥१॥" इत्यादि वचनानां का गतिः । इति चेत् , नैतानि . वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्र
१" अविधिकृताद्वरमकृतं असूत्रवचनं मणन्ति सर्वज्ञाः । प्रायश्चित्तं यस्मादकृते गुरु कृते लघुकम् ।।"