________________
[७७] शके-"यः शृण्वन् सिद्धान्तं, विषयपिपासातिरेकतः पापः। प्रामोति न संवेगं, तदापि यः सोऽचिकित्स्य इति ॥ १ ॥ नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि । कुर्वनेतद्गुरुरापि, तदधिकदोषोऽवगन्तव्यः ॥२॥" (पो० १०-१४-१५) मण्डल्युपवेशनं-सिद्धान्तदानेर्थमण्डल्युपवेशनम् । 'तदधिकदोषः' अयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुमहादोषत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्ररूपणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्त्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् ॥ १५ ॥ ननु किमेतावबूढार्थगवेषणया?, यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यं "महाजनो येन गतः स पन्थाः" इति वचनात, जीतव्यवहारस्यैवे• दानी बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाहमुत्तूण लोगसन्नं, उद्दण य साहुसमयसब्भावं। सम्म पट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥
'मुत्तूण' ति । मुक्त्वा ['लोकसंज्ञा'] " लोक एव प्रमाणं" इत्येवंरूपां शास्त्रनिरपेक्षां मतिं 'उड्डूण यत्ति वोवा च ' साधुसमयसद्भावं ' समीचीनसिद्धान्त [रहस्यं] 'सम्यम्' विधिनीत्या प्रवर्तितव्यं चैत्यवन्दनादौ 'बुधेन' परिडतेन 'अतिनिपुणबुद्ध्या' अतिशयितसूक्ष्मभावानुधाविन्या मत्या।
१ शृण्वन्नपि सिद्धान्तं ' इत्यपि ।