________________
[२] परिणामविनाशनात् , तथा महतोऽनुष्ठानस्य 'अल्पार्थनात् ' तुच्छलब्ध्यादिप्रार्थनेन लघुत्वस्यापादनादिदं विषं ज्ञेयम् ।। "दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव, कालान्तरनिपातनात् ॥३॥" (१५७ श्लो.) एतद् अनुष्ठानं ऐहिकभोगनिस्पृहस्य स्वर्गभोगस्पृहया गरमाहुः 'विहिवनीत्यैव' विषोक्तनीत्यैव, केवलं कालान्तरे-भवान्तररूपे निपातनात्-अनर्थसम्पादनात् । विषं सद्य एव विनाशहेतु:, गरश्च कालान्तरेणेत्येवमुपन्यासः ॥ " अनाभोगवतश्चैतदननुष्ठानमुच्यते।सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम् ॥४॥" ( १५८ श्लो) 'अनाभोगवतः' कुत्रापि फलादावप्रणिहितमनसः 'एतद् अनुष्ठानं 'अननुष्ठानं' अनुष्ठानमेव न भवतीत्यर्थः । सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन मनोऽस्य, 'इतिः' पादसमाप्तौ। यत एवं ततो यथोदितं तथैव ॥" एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः। सदनुष्ठानभावस्य, शुभभावांशयागत: ॥४॥" (१५६ श्लो) 'एतद्रागात् ' सदनुष्ठानवहुमानात् "इदं' आदिधार्मिककालभावि देवपूजाघनुष्ठानं 'सदनुछानभावस्य ' ताचिकदेवपूजाद्याचारपरिणामस्य मुक्यद्वेषेणं मनार मुत्यनुसारेण वा शुभभावलेशयोगात् ' श्रेष्ठः ' अवन्थ्यो हेतुरिति योगविदो' विदुः' जानते || "जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं