________________
[७३]
मुनिपुङ्गवाः ॥६॥" ( १६० श्लो०) जिनोदितमित्येव 'भावसारं ' श्रद्धाप्रधानं 'अदः' अनुष्ठानं 'संवेगगर्भ' मोक्षाभिलाषसहितं 'अत्यन्तं ' अतीव अमरणहेतुत्वादमृतसंज्ञमाहुः 'मुनिपुङ्गवाः' गौतमादिमहामुनयः । एतेषु त्रयं योगाभासत्वादहितम्, द्वयं तु सद्योगत्वाद्धितमिति तत्त्वम् । यत एवं स्थानादियलाभाववतोऽनुष्ठाने महादोषः 'तत् तस्मात् 'अनुरूपाणामेव' योग्यानामेव 'एतद्विन्यासः' चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यः ॥१२॥ क एतद्विन्यासानुरूपा इत्याकाङ्क्षायामाहजे देसविरइजुत्ता, जम्हा इह वोसिरामि कायं ति। सुव्वइ विरईए इम, तासम्म चिंतिथव्व मिणं ॥१३॥
'जे' इत्यादि । ये 'देशविरतियुक्ताः' पञ्चमगुणस्थानपरिणतिमन्तः ते इह अनुरूपा इति शेषः। कुतः ? इत्याह-यस्मात् 'इह' चैत्यवन्दनसत्रे " व्युत्सृजामि कायम्" इति श्रूयते, इदं च विरतौ सत्यां संभवति, तदभावे कायव्युत्सर्गासम्भवात् , तस्य गुतिरूपविरतिभेदत्वात् , ततः सम्यक् चिन्तितव्यमेतत् यदुत " कार्य व्युत्सृजामि" इति प्रतिज्ञान्यथानुपपत्त्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनानुष्ठानेऽधिकारिणः, तेपामेवागमपरतन्त्रतया विधियत्नसम्भवेनामृतानुष्ठानसिद्धेरिति । एतच्च मध्यमाधिकारिग्रहणं तुला