________________
[७० ] अर्थालम्बनयोगाभाववतामेतचैत्यवन्दनसूत्रपदपरिज्ञानं 'स्थानादिषु यत्नवतां ' गुरूपदेशानुसारेण विशुद्धस्थानवर्णोद्यमपरायणानामालम्बनयोगयोश्च तीव्रस्पृहावतां 'परं' केवलं श्रेयः, अर्थालम्बनयोगाभावे वाचनायां प्रच्छनायां परावर्तनायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंवलितत्वेन "अनुपयोगो द्रव्यम्" इतिकृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपि स्थानोर्णयोगयत्नातिशयादालम्बनस्पृहयालुतया च तद्धत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा परम्परया स्वफलसाधकत्वादिति भावः ॥ ११ ॥ स्थानादियत्नाभावे च तचैत्यवन्दनानुष्ठानसप्राधान्यरूपद्रव्यतामास्कन्दनिष्फलं विपरीतफलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्पदानयोग्या इत्युपदिशन्नाह- . इहरा उ कायवासियपायं अहवा महामुसाबाओ। ता अणुरूवाणं चिय, कायनो एयविन्नासो॥१२॥ ___ 'इहरा उत्ति । ' इतरथा तु ' अलिम्बनयोगाभाववतां स्थानादियत्नाभावे तु तत् चैत्यवन्दनानुष्ठानं 'कायवासितप्रायं ' सम्मूर्छनजप्रवृत्तितुल्यकायचेष्टितप्रायं मानसोपयोगशून्यत्वात्, उपलक्षणाद्वाग्वासितप्रायमपि द्रष्टव्यं, तथा चाननुष्ठानरूपत्वान्निष्फलमेतदिति भावः । 'अथवा' इति दोषान्तरे, तचैत्यवन्दनानुष्ठानं महामृषावादः, “स्थानमौन