________________
[६६] 'अरिहंत' इत्यादि । " अरिहंतचेइयाणं करेमि काउस्सग्गं" एवमादि चैत्यवन्दनदण्डकविषयं श्रद्धायुक्तस्य' क्रियास्तिक्यवत: 'तथा' तेन प्रकारेणोच्चार्यमाणस्वरसंपन्मात्रादिशुद्धस्फुटवर्णानुपूर्वीलक्षणेन 'यथार्थ' अभ्रान्त पदज्ञानं भवति, परिशुद्धपदोचारे दोषाभावे सति परिशुद्धपद- . ज्ञानस्य श्रावणसामग्रीमात्राधीनत्वादिति भावः ॥ १०॥ 'एयं च' त्ति । 'एतच्च परिशुद्धं चैत्यवन्दनदण्डकपदपरिज्ञानम् , अर्थः-उपदेशपदप्रसिद्धपदवाक्यमहावाक्यैदंपर्यार्थपरिशुद्धज्ञानम्, आलम्बनं च-प्रथमे दण्डकेऽधिकृततीर्थकृद्, द्वितीये सर्वे तीर्थकृतः, तृतीये प्रवचनम् , चतुर्थे सम्यग्दृष्टिः शासनाधिठायक इत्यादि, तद्योगवता-तत्प्रणिधानवतः 'प्रायः' वाहुन्येन 'अविपरीतं तु' अभीप्सितपरमफलसंपादकमेव, अर्थालम्बनयोगयोनियोगतयोपयोगरूपत्वात् , तत्सहितस्य चैत्यवन्दनस्य भावचैत्यवन्दनत्वसिद्धेः, भावचैत्यवन्दनस्य चामृतानुष्ठानरूपत्वेनावश्यं निर्वाणफलत्वादिति भावः । प्रायोग्रहणं सापाययोगवद्वयावृत्त्यर्थम् । द्विविधो हि योग:-सापायो निरपायश्च, तत्र निरुपक्रममोक्षपथप्रतिकूलचित्तवृद्धिकारणं प्राकालार्जितं कर्म अपायस्तत्सहितो योगः सापायः, तद्रहि-. तस्तु निरपाय इति । तथा च सापायार्थीलम्बनयोगवतः कदाचित्फलविलम्बसम्भवेऽपि निरपायतद्वतोऽविलम्बेन फलोत्पत्तौ न व्यभिचार इति प्रायोग्रहणार्थः । इतरेषां'