________________
[६७] कादिजन्तूनां 'तथाक्षयोपशमयोगतः' तत्तत्कार्यजननाकूलविचित्रक्षयोपशमसंपत्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरिति परमार्थः । अत एवं यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसंपत्त्या मार्गे प्रवर्त्तमानस्य सूक्ष्मबोधाभावेऽपि मार्गानुसारिता न व्याहन्यत इति संप्रदायः ॥७॥ इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्तेअणुकंपा निव्वेओ, संवेगो होइ तह य पसमुत्ति। एएसिं अणुभावा, इच्छाईणं जहासंखं ॥ ८॥
'अणुकंपत्ति । 'अनुकम्पा ' द्रव्यतो भावतश्च यथाशक्ति दु:खितदुःखपरिहारेच्छा, 'निर्वेदः' नैगुण्यपरिज्ञानेन भवचारकाद्विरक्तता, 'संवेगः' मोक्षामिलापः, तथा 'प्रशमश्च' क्रोधकण्डूविषयतृष्णोपशमः, इत्येते ' एतेषां' इच्छादीनां योगानां यथासङ्ख्यं अनु-पश्चाद् भावाः 'अनुभावा' कार्याणि भवन्ति । यद्यपि सम्यक्त्वस्यैवैते कार्यमूतानि लिङ्गानि प्रवचने प्रसिद्धांनि तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्तेरेवानुकम्पादिभावसिद्धेः । अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य