SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [६६] न्तासहितं भवति । स्थिररूपं त्वभ्याससौष्ठवेन निर्वाधकमेव जायमानं तज्जातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेषेण तदनुत्थानाच तद्रहितमेव भवतीति । 'सर्व' स्थानादि स्वसिन्नुपशमविशेषादिफलं जनयदेव परार्थसाधक-स्वसन्निहितानां स्थानादियोगशुद्धचभाववतामपि तसिद्धिविधानद्वारा परगतस्वसदृशफलसंपादकं पुनः सिद्धिर्भवति । अत एव सिद्वाहिंसानां समीपे हिंसाशीलाअपि हिंसां कर्तुं नालम् , सिद्धसत्यानां च समीपेऽसत्यप्रिया अप्यसत्यमभिधातुं नालम् । एवं सर्वत्रापि ज्ञेयम् । 'इतिः' इच्छादिभेदपरिसमाप्तिसूचकः। अत्रायं भत्कृतः संग्रहश्लोक:-" इच्छा तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् । पालनं (प्रवृत्तिः) दोषभीहानिः स्थैर्य सिद्धिः परार्थता ॥१॥ " इति ।।६।। उक्ता इच्छादयो भेदाः, अर्थतेषां हेतूनाहएए य चित्तरूवा, तहाखओवसमजोगो हुंति। तस्स उ सद्धापीयाइज़ोगो भव्वसत्ताणं ॥ ७ ॥ 'एए य ' ति । एते च ' इच्छादयः 'चित्ररूपाः ' परस्परं विजातीयाः स्वस्थाने चासङ्ख्यभेदभाजः, 'तस्य तु' अधिकृतस्य स्थानादियोगस्यैव श्रद्धा-इदमित्थमेवेति प्रतिपत्तिः, प्रीतिः-तत्करणादौहर्षः, आदिना धृतिधारणादिपरिग्रहस्तद्योगतः ' भव्यसत्त्वानां' मोक्षगमनयोग्यानामपुनर्वन्ध
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy