________________
[६५] तज्जुत्तकहापीईइ संगया विपरिणामिणी इच्छा। सव्वत्थुवसमसारं, तप्पालणमो पवत्ती उ॥५॥ तह चेव एयवाहग-चिंतारहियं थिरत्तणं नेयं । सव्वं परत्थसाहग-रूवं पुण होइ सिद्धि ति ॥६॥
'तज्जुत्तकहा ' इत्यादि । तद्युक्तानां-स्थानादियोगयुक्तानां कथायां प्रीत्या-अर्थवुभुत्सयार्थबोधेन वा जनितो यो हर्पस्तल्लक्षणया संगता-सहिता विपरिणामिनी' विधिकबहुमानादिगर्भ स्वोल्लासमात्रायत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति, द्रव्यक्षेत्राधसामग्र्येणासाकल्याभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः। प्रवृत्तिस्तु 'सर्वत्र' सर्वावस्थायां 'उपशमसारं' उपशमप्रधानं यथा स्यात्तथा 'तत्पालनं' यथाविहितस्थानादियोगपालनम् , 'ओ' त्ति प्राकृतत्वात् । वीयोतिशयाद् यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः ॥५॥ 'वह चेव' ति। तथैव' प्रवृत्तिवदेव सर्वत्रोपशमसारं स्थानादिपालनमतस्य-पाल्यमानस्य स्थानादेर्वाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । प्रवृत्तिस्थिरयोगयोरेतावान् विशेष:यदुत प्रवृत्तिरूपस्थानादियोगविधानं सातिचारत्वादाधकांच