________________
[ ५९] मनोविभ्रमापनयनादनवच्छिनप्रयाणसंपादक इत्ययं मोहविमजयसम उत्तमस्तृतीयो विधजयः। एते च त्रयोऽपि विनजया श्राशयरूपाः समुदिताः प्रवृत्तिहेतवोऽन्यतरवैकल्येऽपि वदसिद्धरित्यवधेयम् उक्तं च-" विधजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमा प्रवृत्तिफलः ॥" (पो० ३-8) इति। अतिचाररहिताधिकगुणे गुवादी विनययावृत्त्यवहुमानाद्यन्त्रिता हीनगुणे निगुणे वा दयादानव्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याहिंसादेः प्राप्तिः सिद्धिः उक्तं च-" सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया । अधिके विनयादियुता, हीने च दयादिगुणसारा ॥" (पो ३-१०) इति ॥ स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वं विनियोगः, अयं चानेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तेरवन्ध्यो हेतुः, उक्तं च-" सिद्धेश्वोत्तरकार्य, विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसंपत्त्या, सुन्दरमिति तत्परं यावत् ॥ " (पो०३-११) 'अवन्ध्यं' न कदाचिनिष्फलं 'एतत्' धर्मस्थानमहिंसादि, 'एतस्मिन' विनियोगे सति 'अन्वयसंपत्या' अविच्छेदभावेन 'तत् । विनियोगसाध्यं धर्मस्थानं सुन्दरम् । 'इतिः' भिन्नक्रमः -समास्यर्थश्च, यावत्परमित्येवं योगः, यावत् 'परं' प्रकृष्टं धर्मस्थानं समाप्यत इत्यर्थः । इदमत्र हृदयम्-धर्मस्वावदागा