________________
[६०] दिमलविगमेन पुष्टिशुद्धिमच्चित्तमेव । पुष्टिश्च पुण्योपचयः, शुद्धिश्च घातिकर्मणां पापानां क्षयेण या काचिनिर्मलता, तदुभयं च प्रणिधानादिलक्षणेन भावेनानुवन्धवद्भवति, तदनुबन्धाच्च शुद्धिप्रकर्षः संभवति, निरनुवन्धं च तदशुद्धिफलमेवेति न तद्धर्मलक्षणम् , ततो युक्तमुक्तं "प्रणिधानादिभावेन परिशुद्धः सर्वोऽपि धर्मव्यापारः सानुवन्धत्वाद् योगः" इति । यद्यप्येवं निश्चयतः परिशुद्धः सर्वोऽपि धर्मव्यापारो योगस्तथापि 'विशेषेण ' तान्त्रिकसंकेवव्यवहारकृतेनासाधारण्येन स्थानादिगत एव धर्मव्यापारो योगः, स्थानाद्यन्यतम एव योगपदप्रवृत्तेः सम्मतत्वादिति भावः ॥ १ ॥ ____ स्थानादिगतो धर्मव्यापारो विशेषेण योग इत्युक्तम्, तत्र के ते स्थानादयः ? कतिभेदं च तत्र योगत्वम् ? इत्याहठाणुन्नत्थालंबण-रहिओ तंतम्मि पंचहा एसो। दुगमित्थ कम्मजोगो, तहातियं नाणंजोगो उ ॥२॥ _ 'ठाणुनत्थे' त्यादि । स्थीयतेऽनेनेति स्थान-आसनविशेषरूपं कायोत्सर्गपर्यवन्धपद्मासनादि सकलशास्त्रप्रसिद्धम् , ऊर्ण:-शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलपणा, अर्थ:-शब्दाभिधेयव्यवसाय:, आलम्बनं-वामप्रतिमादिविष
१" नाणजोगा उ" इत्यपि ।