SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [५८] त्पत्या धर्मान्तरायनिवर्त्तकः परिणामः । स च जेतव्यविनत्रैविध्यात्रिविधः, तथाहि-यथा कस्यचित्कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति, तदपनयनं तु पथि प्रस्थितस्य निराकुलगमनसंपादकं, तथा मोक्षमार्गप्रवृत्तस्य कण्टकस्थानीयशीतोष्णादिपरीपहरुपद्रुतस्य न निराकुलप्रवृत्तिः, ततितिक्षाभावनया तदपाकरणे त्वनाकुलप्रवृत्तिसिद्धिरिति कण्टकविघ्नजयसमः प्रथमो हीनो विघ्नजयः । तथा तस्यैव ज्वरेण भृशमभिभूतस्य निराकुलगमनेच्छोरपि तत्कर्तुमशक्नुवतःकण्टकविघ्नादधिको यथा ज्वरविघ्नस्तजयश्च विशिष्टगमनप्रवृत्तिहेतुस्तथेहापि ज्वरकल्पाः शारीरा एव रोगा विशि धर्मस्थानाराधनप्रतिवन्धकत्वाद्वितास्तदपाकरणं च "हियाहारा मियाहारा" (पिंडनियुक्ति-गा०६४८) इत्यादिसूत्रोक्तरीत्या तत्कारणानासेवनेन, 'न मत्स्वरूपस्यैते परीपहा लेशतोऽपि बाधकाः किन्तु देहमात्रस्यैव इति भावनाविशेषण वा सम्यग्धर्माराधनाय समर्थमिति ज्वरविन्नजयसमो मध्यमो द्वितीयो विघ्नजयः । यथा च तस्यैवाध्वनि जिगमिषोदिग्मोहविघ्नोपस्थितौ भूयो भूयः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः स्यात्तद्विज्ये तु स्वयमेव सम्यग्ज्ञानात्परैश्वाभिधीयमा. नमार्गश्रद्धानान्मन्दोत्साहतात्यागेन विशिष्टगमनसंभवस्तथेहापि मोक्षमार्गे दिग्मोहकल्पोमिथ्यात्वादिजनितो मनोविनमो विघ्नस्तजयस्तु गुरुपारतन्त्र्येण मिथ्यात्वादिप्रतिपक्षभावनया
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy