________________
[५७] भेदाः, 'अयं ' च पञ्चप्रकारोऽप्याशयो भावः, अनेन विना 'चेष्टा' कायवाश्मनोव्यापाररूपा द्रव्यक्रिया 'तुच्छा' . असारा अभिलपितफलासाधकत्वादित्येतदर्थः ॥ अथ के ते प्रणिधानाधाशयाः ? उच्यते-प्रणिधानं प्रवृत्तिर्विननंयः सिद्धिर्विनियोगश्चेति पञ्च, आह च-"प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोगभेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाशयः पञ्चधान विधौ ।।" (पो०३-६) इति । तत्र हीनगुणद्वेपाभावपरोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य क
व्यतोपयोगः प्रणिधानम्, उक्तं च-"प्रणिधानं वत्समये, स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं, परार्थनिपचिसारं च ॥" (पो० ३-७) 'तत्समये' प्रतिपन्नधर्म स्थानमर्यादायां 'स्थितिमत्' अविचलितस्वभावम् , 'तदध' स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्तिपु जीवेषु 'कपानुगं' करुणापरम् , न तु गुणहीनत्वात्तेषु द्वेषान्वितम् , शेष सुगमम् ।। अधिकृतधर्मस्थानोद्देशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणोत्सुक्यविरहितः प्रयत्नातिशयः प्रवृचिः, आह च-"तत्रैव तु प्रवृत्तिा, शुभसारोपायसङ्गवात्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ।।" (पो०३-८) 'तत्रैव ' अधिकृतधर्मस्थान एव शुभ:-प्रकृष्टः सारो-नैपुण्यान्वितो य उपायस्तेन संगता ॥ विनंजयो नाम विनस्य जयोऽस्मादिति व्यु