________________
॥ अर्हम् ॥
श्रीमद्-हरिभद्रररिसंदर्भिता श्रीमद्यशोविजयोपाध्यायविरचितव्याख्यासंवलिता
योगविंशिका।
॥ ऎ नमः ॥ अथ योगविंशिका व्याख्यायतेमुक्खेण जोयणाओ, जोगो सम्वो विधम्मवावारो। परिसुद्धो विन्नेओ, ठाणागओ विसेसेणं ॥१॥ ___'मुक्खेण ' ति । ' मोक्षण' महानन्देन योजना 'सर्वोऽपि धर्मव्यापार:' साधोरालयविहारभाषाविनयमिक्षाटनादिक्रियारूपो योगो विज्ञेयः, योजनाद्योग इति व्युत्पत्त्यानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् । कीदृशो धर्मव्यापारो योगः ? इत्याह'परिशुद्धः' प्रणिधानाधाशयविशुद्धिमान् , अनीदृशस्त्र द्रष्यक्रियारूपत्वेन तुच्छत्वात् , उक्तं च-"आशयभेदा एते, सर्वेऽपि हि वचतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ।।" (षोडशक ३-१२) 'ए' प्रणिधानादयः सर्वेऽपि कथञ्चिक्रियारूपत्वेऽपि तदुपलक्ष्या प्राशय