________________
[५०] न तत्स्वाभासं दृश्यत्वात् ॥४-१९॥ . एकसमये चोभयानवधारणम् ॥ ४-२०॥
स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेख मृखत इतिचित्तान्तरदृश्ये बुद्धिबुद्धेतिप्रसङ्गः स्मृतिसं
करश्च ॥४-२१॥ कथम् - चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धि. . संवेदनम् ॥ ४-२२ ॥
अतश्चैतदभ्युपगम्यतेद्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४-२३ ।।
भाष्यम्-मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषएत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंबद्धं, तदेतच्चित्तमेव द्रष्टदृश्योपरक्तं विषयविपयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वम्, नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति । अनुकम्पनी