________________
[५१] यास्ते । कस्मात् १ अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः तस्यालम्बनीभूतत्वादन्यः । स चेदर्थः चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात्प्रतिविम्बीभूतोऽर्थः . प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतग्रहणग्राह्यस्वरूपचित्तभेदात्रयमप्येतजातितः प्रविभजन्ते ते सम्यग्दर्शिनः तैरधिगतः पुरुष इति ॥
(य)-वयं तु ब्रूम:-अग्निरूपात्मके प्रकाशे संयोगं विनाऽपि यथा स्वतःप्रकाशकत्वं तथा चैतन्येऽपि प्रतिप्राणि परानपेक्षतयानुभूयमाने, अन्यथाऽनवस्थाव्यासङ्गानुपपत्त्यादिदोषप्रसङ्गात् । परप्रकाशकत्वं च तस्य क्षयोपशमदशायां प्रतिनियतविषयसंबन्धाधीनम् । क्षायिक्यां च दशायां सदा तन्निरावरणस्वभावाधीनम् । तचैतन्यं रूपादिवत्सामान्यवदस्पन्दात्मकानुपादानकारणत्वेन गुण इति गुण्याश्रित एव स्यात् । यश्च तस्य गुणी स एवात्मा । निर्गुणत्वं च तस्य सांसारिकगुणाभावापेक्षयैव (न) अन्यथा, ( तस्य ) स्वाभाविकानन्तगुणाधारत्वाद् । बिम्ब- . भूतचितो निर्लेपत्वाभ्युपगमे च तत्प्रतिबिम्बग्राहकत्वेन बुद्धौ प्रकाशस्यानुपपत्तिः, बिम्बप्रतिविम्बभावसंवन्धस्य द्विष्ठत्वेन द्वयोरपि लेपकत्वतौल्यात् । उपचरितबिम्बत्वोपपादने चोपचरितसर्वविषयत्वाद्युपपादनमपि तुल्यमिति नयादेशविशेषपक्षपातमात्रमेतत् ।। प्रकृतं प्रस्तुमः