________________
[ ४८ ]
( य० ) -- द्रव्यपर्यायात्मनैवाध्वत्रयसमावेशो युज्यते नान्यथा, निमित्तस्वरूपभेदस्य परेणाप्यवश्याश्रयणीयत्वात् । तथा चाभूत्वा भावाभावयोरपि पर्यायद्रव्यस्वरूपाभ्यां स्याद्वाद एव युक्तोऽन्यथा प्रतिनियतवचनव्यवहाराद्यनुपपत्तेरिति तु श्रद्धेयं सचेतसा ||
व्यक्तसूक्ष्मा गुणात्मानः ॥ ४-१३ ॥ यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमितिपरिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४-१४ ॥
भाष्यम् — प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणास्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियम्, ग्राझात्मकानां शब्दभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्त्तिसमानजातीयानामेकः परिणामः पृथ्वीपर - माणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथ्वी गौ वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः॥
(२०) -- एकानेकपरिणाम स्याद्वादाभ्युपगमं विं दुःश्रद्धानमेतत् ॥ कुतश्चैतदन्याय्यम् :वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ४-१५॥