________________
[४७] नास्त्यसतः संभवो न चास्ति सतो विनाश इति द्रन्यस्वेन संभवन्त्यः कथं निवर्तिष्यन्ते वासना इतिअतीतानागतं स्वरूपतोऽस्त्यध्धभेदाधर्मा
णाम् ॥४-१२॥ भाष्यम्-भविष्यद्वयक्तिकमनागतम्, अनुभूतव्यक्तिकमतीतं, स्वव्यापारोपावढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत । तस्मादतीतानागतं स्वरूपतोऽस्तीति । किश भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरूपाख्यमिति तदुद्देशेन तेन निमित्तेनं कुशलानुष्ठानं न युज्येत । सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थ नापूर्वजनने । सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति । धर्मी चानेकधर्मस्वभावस्तस्य चावभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमान व्यक्तिविशेषापन्नं द्रव्यतोऽस्ति एवमतीतमनागतं च । कथं तर्हि ? खेनैव व्यङ्गेन स्वरूपेणानागतमस्ति, स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति । वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः। एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति · नाभूत्वाभावस्त्रयाणामध्वनामिति ॥