________________
[४०] न च तत्सालम्बनं तस्याविषयीभूतत्वात्॥३-२०॥ कायरूपसंयमात्तग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशा
सम्प्रयोगेऽन्तर्धानम् ॥३-२१॥ सोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्त
ज्ञानमरिष्टेभ्यो वा ॥ ३-२२ ॥ मैत्र्यादिषु बलानि ॥३-२३ ॥
बलेषु हस्तिवलादीनि ॥३-२४ ॥ प्रवृत्त्या लोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टार्थ
ज्ञानम् ॥ ३-२५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ ३-२६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ ३-२७ ॥
ध्रुवे तद्गतिज्ञानम् ॥ ३-२८॥ नाभिचके कायव्यूहज्ञानम् ।। ३-२९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३-३० ॥
कूर्मनाड्यां स्थैर्यम् ॥ ३-३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३-३२ ॥
प्रातिभावा सर्वम् ॥ ३-३३॥