________________
[३९] व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३-९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥३-१०॥
सर्वार्थैकाग्रतयोः क्षयोदयौ चित्तस्य ततः पुनः समाधिपरिणामः ॥३-११॥ शान्तोदितो तुल्यप्रत्ययौ चित्तस्यै
काग्रता परिणामः ॥३-१२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा
व्याख्याताः ॥३-१३ ॥ तत्रशान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३-१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥३-१५ ॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥३-१६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रवि
भागसंयमात्सर्वभूतरुतज्ञानम् ॥३-१७॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥३-१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३-१९ ॥