________________
यश्चित्तनिरोधे निरुद्धानीन्द्रियाणि, नेतरेन्द्रियजयवत् प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥
(य०)-व्युत्थानध्यानदशासाधारणं वरतुस्वभावभावनया स्वविषयप्रतिपत्तिप्रयुक्तरागद्वेषरूपफलानुपधानमेवेन्द्रियाणां परमा जयः इति तु वयम् । तथोक्तं शीतोष्णीयाध्ययने (आचारान. अध्ययन ३ उद्दे० १.)-" जस्सिमे सद्दा य रूपा य गंधा व रसा य फासा य अभिसमन्नागया भवंति से आयवं नाणवं वेयषं धम्मवं बंभवं " इत्यादि । अत्र "अभिसमन्वागता" इत्यस्य अभीत्याभिमुख्येन मनःपरिणामपरतन्त्रा इन्द्रियविषयादत्युपयोगलक्षणेन (?) समिति सम्यक्स्वरूपेण नैते इष्टा अनिष्टा वेलि निर्धारणया अनु पश्चादागताः परिच्छिन्ना यथार्थस्वभावेन यस्येत्यर्थः, स आत्मवानित्यादि परस्परमिन्द्रियजयस्य फलार्थवादः । अन्यत्राप्युक्तम्-" ण सका रूवमह९ चक्खू विसयमागयं । रागदोसा उजे तत्थ ते भिक्खू परिवजए॥ १॥” इत्यादि । चित्तनिरोधादतिरिक्तप्रयत्नानपेक्षत्वं तु परमेन्द्रियजये ज्ञानैकसाध्ये प्रयत्नमात्रानपेक्षत्वादेव निरूप्यते, तथा च स्तुतिकार:-" संयसानि तवा(न चा)क्षाणि न चोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा(ध)वियेन्द्रियजयः कृतः॥१॥” इति । न च प्राणायामादिहठयोगाभ्यासश्चित्तनिरोधे परमेन्द्रियजये च निश्चित उपायोऽपि,
१ सिद्धसेनदिवाकरः।
-
-