________________
[३२]
तदर्थ एव दृश्यस्यात्मा ॥ २-२१ ॥
कस्मात् -
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारण
त्वात् ॥ २-२२ ॥
संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृतेस्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २-२३ ॥
यस्तु प्रत्यक्चेतनस्य खबुद्धिसंयोगःतस्य हेतुरविद्या ॥ २-२४ ॥
हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम्, अतः परं हानं वक्तव्यम् -
तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥ २–२५ ॥
अथ हास्य कः प्राप्युपायः १ इतिविवेकख्यातिरविप्लवा हानोपायः ॥ २-२६ ॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २-२७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपायः । न च सिद्धिरन्तरेण साधनम् इत्येतदारभ्यते—