SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ [ ३३ ] योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीसिरा विवेकख्यातेः ॥ २-२८ ॥ तत्र योगाङ्गान्यवधार्यन्ते— यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २२९ ॥ अहिंसासत्यास्त्येयब्रह्मचर्यापरिग्रहा यमाः ॥२-३०॥ ते तु जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २–३१ ॥ भाष्यम् - तत्राहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्ये - वेव नान्यत्र हिंसा | सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना न चतुर्दश्यां पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना श्रहिंसादयः सर्वथैव प्रतिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविहितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ १ " वाविदित-" इति ।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy