________________
[३१] र्थता कारणं भवतीति नासौ पुरुषार्थकृतेति नित्याऽऽल्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । सार्थों हेतुर्निमित्तं कारणं भवतीत्यनित्याख्यायते । गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते, व्यक्तिभिरेवातीतानागतच्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधमौका इव प्रतिभासन्ते । यथा देवदत्तो दरिद्राति, कस्मात ? यतोऽस्य म्रियन्ते गाव इति गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं तत्र तत्संसृष्टं विविच्यत्ते क्रमानतिवृत्तेः। तथा पडविशेपा लिङ्गमाने संसृष्टा विविच्यन्ते परिणामक्रमनियमात् । तथा तेष्वविशेपेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्ताद-"न विशेपेभ्यः परं तच्चान्तरमस्ति" इति विशेपाणां नास्ति तत्त्वान्तरपरिणामः । तेपां तु धर्मलक्षणावस्थापरिणामा व्याख्यास्यन्ते ॥
(य०) प्रागभावप्रध्वंसाभावानभ्युपगमे सर्वमेतदुक्तमनुपपन्नम्। तदुक्तमकलङ्घन-" कार्यद्रव्यमनादि स्यात्प्रागभावस्य निहो । प्रध्वंसस्यापलापे तु तदेवानन्ततां व्रजेत् ॥ ॥” तदुपगमे तु द्रव्यप्रायोभयरूपत्राद्वस्तुनः सर्वत्र त्रैलक्षण्येन कथंचिदेपा व्यवस्था युज्येतापीति वयं वदामः ॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२-२॥
१ . स चार्थों ' इत्यपि ।