________________
[३०] प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगा
पवर्गार्थं दृश्यम् ॥ २-१८॥ . .. दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यतेविशेषाविशेषलिङ्गमात्रालिङ्गानि
गुणपर्वाणि ॥२-१९॥ भाष्यम्-तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पशरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वचर्जिबाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थमित्येतान्यमितालक्षणयाविशेषस्य विशेषाः, गुणानामेप षोडशको विशेषपरिणामः । पडविशेषाः, तद्यथा-शब्दतन्मानं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेत्येकद्वित्रिचतुष्पश्चलक्षणाः शब्दादयः पञ्चाविशेषाः, पष्ठश्चाविशेषोऽसितामात्र इति । एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेपेभ्यो लिङ्गमात्रं महत्तत्त्वं तसिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति । प्रतिसंसृज्यमानाश्च तसिन्ने सत्तामात्रे महत्यात्मन्यवस्थाय यत्तनिःसत्तासत्तंनिःसदसंनिरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतीयन्ति। एष तेषां लिङ्गमात्र परिणामो निस्सत्तासत्तं चालिङ्गपरिणाम इति । अलिङ्गावस्थायां न पुरुषार्थों हेतुर्नालिङ्गावस्थायामादौ पुरुषा