________________
[ २६ ] इति । तदस्य महतो दुःखसमुदायस्य प्रभववीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः। यथा चिकित्साशास्त्रं चतुर्यहम्, रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्म्यहमेव । तद्यथा-संसारः संसारहेतुः मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्यात्यन्तिकी निवृत्तिनम् | हानोपाय: सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं हेयं वा न भवितुमहति इति, हाने तस्योच्छेदवादप्रसङ्गा, उपादाने च हेतुवादः, उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् । तदेतच्छास्त्रं चतुय॒हमित्यभिधीयते ॥
(य०)--निश्वयनयमतमेतद्, यदुपजीव्याह स्तुतौ महावादी"भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् | न च हीनकलोऽसि नाधिकः समतां नाप्यतिवृत्त्य वर्तसे ॥१॥" इति ।
हेयं दुःखमनागतम् ॥ २-१६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते
द्रष्ट्रदृश्ययोः संयोगो हेयहेतुः ॥२-१७॥ दृश्यस्वरूपमुच्यते
१ सिद्धसेनदिवाकरः २ चतुर्थद्वात्रिंशिका श्लो. २९ ॥ ३ 'चाप्यनिवृत्त्य' इति मुद्रिते पाठांतरं ।
-