________________
[ २६ ] पाकभेदेन कर्मणां नानाविपाकत्वाद्भवविपाक्यायुष्प्रकृतिविपाकस्य प्रायणोद्बोध्यत्वेऽपि सर्वत्र तथा वक्तुमशक्यत्वात् । दृश्यते हि निद्रादिविपाकोद्बोधे कालविशेषस्यापि हेतुत्वम्, न च दृष्टेऽनुपपन्नं नाम, स्वानन्तरकर्मविपाकोद्बोधद्वारा प्रायणस्याप्रिमसंतत्युद्बोधकत्वस्वीकारे चातिप्रसङ्गः, नानाभवसंततिद्वारघटनायास्तत्र तत्पूर्व च वक्तुं शक्यत्वात् | प्रधानत्वमपि कर्मण एकायुष्परिग्रहं विना दुर्वचम् | न कत्र भवे नानागतियोग्यकर्मोपादानेऽन्ते इदमेव फलवदित्यत्रान्यन्नियामकमस्ति आयुस्त्वेकत्र भवे एकवारमेव वध्यत इति तदनुसारेणान्ते तादृग्लेश्योपगमात्, " यल्लेश्यो म्रियते तल्लेश्येत्पद्यते " इति प्राग्भववद्धमायुस्तादृशलेश्यया विपाकप्राप्तं प्रधानीभवदन्यकर्माण्युपगृहातीति सर्व [ सं ] गच्छते । प्रधानकर्मण्या1 वापगमनादिकमपि " मूलप्रकृत्याभिन्नाः, संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादव्यवसायप्रयोगेण ॥ ” इत्याद्युक्तनीत्या संक्रमविधिपरिज्ञानं विना न कथमप्युपपादयितुं शक्यम्, अन्यथा
कुत्र संक्रामति ? इति विनिगन्तुमशक्यत्वात् । तस्मादत्रार्थेऽस्म स्कृतकर्मप्रकृतिवृत्तिं सम्यगवलोक्य वीतराग सिद्धान्तानुरोधि कर्माशयस्वरूपं व्याख्येयमिति कृतं विस्तरेण ॥ प्रकृतं प्रस्तुमः -- तेह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२-१४॥ कथं १ तदुपपाद्यते---
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च
S
.