________________
[२५] गुरुलघुकर्मणामनेकेषां प्रायणकालोद्वद्धवृत्तिकानां प्रारब्धतेत्येकत्र जन्मनि जन्मसप्तभोगाकर्मस्यापत्तिरेव जन्मकृतस्य ताशकर्मप्रचयस्य प्रायणसप्तकेन "यंयं चापि स्मरन् भावं" (गीता.अ.म.श्लो. ६.)इत्यादि स्मृत्यनुरोधेन प्रायणसप्तककालोत्पादितदेहान्तरविषयान्तिमप्रत्ययैर्वा क्रमशो लब्धप्रारब्धताकस्य सप्तजन्मविप्रत्वोपपादकत्वाभ्युपगमे गतमैहिकभविककर्माशयप्रतिज्ञया, एवमनन्तभवविपाकिताया अपि वक्तुं शक्यत्वात् । किञ्च तस्य तजन्मभोगप्रदत्वावच्छेदेन प्रारब्धत्वं तदन्यावच्छेदेन च संचितत्वं वाच्यम् , अन्यथा तत्त्वज्ञानिनोऽपि ताशकर्मवतो देहान्तरोत्पत्यापत्तिः, संचितं हि कर्म तत्त्वज्ञाननाश्यं न तु प्रारब्धम् । जन्मान्तरावच्छेदेन च तस्य संचितत्वात्तत्त्वज्ञानेन नाशानोक्तप्रसङ्ग इति । एवं च तजन्मभोगप्रदत्वावच्छेदेन तजन्मप्रारब्धत्वम् , तज्जन्मप्रारब्धत्वावच्छेदेन च तज्जन्मभोगप्रदत्वमिति व्यक्त एवान्योऽन्याश्रयः। तस्मादायुष्कर्मैव प्रारब्धं तदेव च कर्मान्तरोपगृहीतं तत्तद्भवभागप्रदम् । अत एव जातिनामनिधत्तायुष्कादिभेदोऽपि सिद्धान्तसिद्धः । केवलिनश्चायुरधिककर्मसत्त्वे केवलिसमुद्घातेन तत्समीकरणान्न काऽप्यनुपपत्तिरिति अन्यत्रायुषो नैकभविकत्वनियमः कर्माशयस्य श्रद्धेयः। प्रायणमेव प्राग्भवकृतकर्मप्रचयोद्बोधकमित्यपि दुःशिक्षिताभिधानम् , पुद्गलजीवभवक्षेत्रवि
१० भोग्यकर्मविपाकस्या' इति समीचीनम् । २ ० रेकजन्म' इति शु०।३ " गतमिहैक-" इति ।
मविपाकल्या ति समाचाना