________________
[२७] दुःखमेव सर्व विवेकिनः ॥२-१५॥
भाष्यम्-सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजा कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति । तथा चोक्तम्-" नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशयः "-इति । विषयसुखं चाविघेत्युक्तम् । या भोगेष्विन्द्रियाणां तृप्तरुपशान्तिस्तत्सुखम, या लौल्यादनुपशान्तिस्तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासमनु विवर्धते रागः कौशलानि चेन्द्रियाणामिति । तस्मादनुपाय: सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविपभीत इवाशीविषेण दप्टो यः सुखार्थी 'विषयाननुव्यवसितो महति दुःखपङ्के मन इति । एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति । अथ का तापदुःखता? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते, ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच भवतीत्येषा तापदुःख
१" विषयानुवासितः" इत्यपि।