________________
[२३] दिना जनितमदृष्टं गङ्गामरणे विपच्यते इत्यस्यापि शास्त्रार्थत्वादायुष इव मरणस्यापि 'विपाककल्पातिरेकात् । किं च जन्म-आद्यक्षणसंबन्धरूपमायुःप्रतिलम्भनद्वारा [य] दि पूर्वकर्मविपाकः स्यात तदोत्तरोत्तरक्षणानामपि तथात्वापत्तिः, आयुषैव तदुपसंग्रहे च जन्मनोऽपि नवोपसंग्रहो युक्तः, तस्माजन्मपदं गतिजात्यादिनामकर्मकृतजीवपर्यायोपलक्षणम् । गत्यादिभोगत्वावच्छिन्ने च गत्यादिनामकर्मप्रकृतीनां पृथक्पृथकारणत्वमवश्यमेष्टव्यम् , अन्यथा संकरापत्तेः । आयुरपि मनुष्याद्यायुभेदेन जीवनपर्यायलक्षणं चतुविध फलभूतं, तजनकमायुष्कर्माऽपि च चतुर्विधमवश्यमभ्युपगमनीयम् । भोगपदेनावशेषकर्मषटकफलमुपलक्षणीयम् , ज्ञानावरणादिफले ज्ञानावरणीयादीनां पृथक्पृथकारणत्वस्यान्वयव्यतिरेकसिद्धत्वात् । पूर्वापरभावव्यवस्थितजन्मान्तरीयकर्मप्रचयस्य ताहशोत्तरजन्मफलभोगे हेतुत्वं तु दुर्वचम् , कचित्फलकमवैपरीत्यस्यापि दर्शनाद् । बुद्धिविशेषविषयत्वादीनां कर्मप्रचयफलप्रचयावनुगमय्य हेतुहेतुमद्भावाभ्युपगमे तु घटपटादिकार्यप्रचयेऽपि दण्डवेमादीनां तथा [हेतु ] हेतुमद्भावापत्तिः । अनन्यगतिकत्वात्कर्मफलभोगस्थल एवेत्थं कल्प्यते नान्यत्रेति चेत्, न, अवगतभगवत्प्रवचनरहस्यस्यानन्यगतिकत्वासिद्धेः। तथाहि-प्रारम्भबद्धमेकमेवायुष्कर्म प्रायणलब्धविपाकमेव जन्म निर्वर्तयति, कर्मान्तराणि च कानि
१-विपाककोटिप्रविष्टत्वात् इति भावः । २ । तथैवोप'. स्यात् अथवा ' तेनैवोप' इति स्यात् । ३ 'खादिना' स्यात् ।
-