________________
[२२] योऽनियतविपाकस्तस्य त्रयी गतिः, कृतस्याविपकस्य नाशर, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपकस्य नाशो यथा-शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम्" द्वे द्वे ह वै कर्मणी वेदितव्ये, पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहेच ते कर्म कवयो वेदयन्ते " । प्रधानकर्मण्यावापगमनम्, यत्रेद-: मुक्तम्-"स्यात्स्वल्पः संकरः सपरिहारः स प्रत्यवमर्पः कुशलस्य नापकर्षायालम् । कस्मात् ? कुशलं हि मे बह्वन्यदस्ति, यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति" इति । नियतविपाकप्रधानकर्मणाभिभूतस्य चिरमवस्थानम् , कथमिति ?अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं भरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येत् आवापं वा गच्छेत् । अभिभूतं वा चिरमप्युपासीत यावद समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करो-. तीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्जाना चेति । न चोत्सर्गस्यापवादानिवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ ... (य०) अनेदं मनाग मीमांसामहे-"जात्यायुोगा विपाक" इत्यवधारणमनुपपन्नं, गङ्गामरणमुद्दिश्य कृतेन त्रिसन्ध्यस्तवपाठा-.