________________
[२१] अनेकेषु जन्मस्वेकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्ता, स चाप्यनिष्ट इति । न चानेक कर्मानेकजन्मकारणम् , कस्मात् १ तदनेक जन्म युगपन्न भवतीति क्रमेण वाच्यम्, तथा च पूर्वदोषानुषङ्गः । तस्माजन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयमचयो विचित्रः प्रधानोपसर्जनभावनावस्थितः प्रायणाभिव्यक्तः एकप्रघट्टकेन मरणं प्रसाध्य सम्मूछित एकमेव जन्म करोति, तच जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुपि तेनैव कर्मणा भोगः संपद्यत इति । असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयते । अत एकमविका कर्माशय उक्त इति । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वात, द्विविपाकारम्भी वा भोगायुहेतुत्वात्, नन्दीश्वरवन्नहुषवद्वेति । क्लेशकर्मविपाकानुभवनिर्मिताभिस्तु वासनाभिरनादिकालसंमूञ्छितमिदं चित्तं चित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततं इत्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय एप एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाः, ताश्चानादिकालीना इति । यस्त्वसावेकभविका कर्माशयः स नियतविपाकश्वानियतविपाकश्च । तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमः, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात् ? यो घदृष्टजन्मवेदनी
१ 'कर्मसु' इति.
-
-