SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [२०] ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २- १० ॥ भाष्यम् - ते पञ्च क्लेशा दग्धवीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ ( य०) - क्षीणमोह संबन्धियथाख्यात चारित्रया इत्यर्थः ॥ स्थितानां तु बीजभावोपगतानां - ध्यानहेयास्तद्वृत्तयः ॥ २-११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२-१२ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २-१३ ॥ भाष्यम् - सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति, नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुला श्रदग्धबीजभावाः प्ररोहसमर्थाः भवन्ति, नापनीततुषा दग्धवीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते - किमेकं कर्मैकस्य जन्मनः कारणम् ? अथैकं कर्मानेकं जन्माक्षिप - तीति १ । द्वितीया विचारणा - किमनेकं कर्मानेकं जन्म निर्वर्तयति १ अथानेकं कर्मैकं जन्म निर्वर्तयति १ इति । न तावदेकं कर्म एकस्य जन्मनः कारणम्, कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमात् अनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम्, कस्मात् १ ,
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy