________________
[१९] मभिनिवेशा क्लेशः स्वरसवाही कुमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा चायमत्यन्तमुढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः, कस्मात् ? समाना हि तयोः कुशलाकुशलयोमरणदुःखानुभवादियं वासनेति ॥
(य०)-अत्राविद्या स्थानाङ्गोक्तं दशविध मिथ्यात्वमेव। अस्मिताया अदृश्ये (श्व दृश्ये)हगारोपरूपत्वे चान्तर्भाव:(?)। बौद्धदृश्यहगैक्यापत्तिस्वीकारे तु द्वेष्टिवादसृष्टिवादापत्तिः (१)। अहङ्कारममकारबीजरूपत्वे तु रागद्वेषान्तर्भाव इति । रागद्वेषों कषायभेदा एव । अभिनिवेशश्चोदाहृतोऽर्थतो भयसंज्ञात्मक एव, स च संज्ञान्तरोपलक्षणम् , विदुषोऽपि भय इवाहारादावप्यभिनिवेशदर्शनात्। केवलं विदुषा(षोऽ)प्रमत्ततादशायां दशसंज्ञाविष्कम्भणे न कश्चिदयमभिनिवेशः। संज्ञा च मोहाभिनिवेशः, संज्ञा च मोहाभिव्यक्त चैतन्यमिति सर्वेऽपि लेशा मोहप्रकृत्युदयजभाव एव, अत एव क्लेशक्षये कैवल्यसिद्धिः, मोहक्षयस्य तद्धेतुत्वात् इति पारमर्षरहस्यम्।।
१ स्थानाङ्गसूत्रे १० स्थाने । २ अस्मिताया अपि दृश्ये हगारोपरूपत्वे हशि वा दृश्यारोपरूपत्वे मिथ्यात्व एवान्जरभावः। आरोपानङ्गीकारे 'बौद्धदृश्य' इत्यादिना दृष्टिसृष्टिवादापत्तिदोषः। (दृष्टिसृष्टिबादप्राक्रियालेशस्तु अद्वैतसिद्धि पृ०५३३ । 'सिद्धान्तलेश' परिच्छेद २ श्लो. ४० आदिषु द्रष्टव्यः)। ३ 'दृष्टिसृष्टिवाद' इति स्यात् ।