________________
[१८] सपनः । यथा वागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २-६ ॥
भाष्यम्-पुरुषो दृक्शक्तिर्बुद्धिदर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते । भोकृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगा कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोगः ? इति । तथा चोक्तम्-"वुद्धितः परमपुरुपमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात् तत्रात्मबुद्धिं मोहेनेति"।
सुखानुशयी रागः ॥२-७॥ भाष्यम्-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने चा यो गर्द्धस्तृष्णा लोभः स राग इति ॥
दुःखानुशयी द्वेषः ।। २-८॥ भाष्यम्-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा या प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ।। खरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥२-९ __ भाष्यम्-सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति, "मा न भूवं, भूयासम्” इति। न चाननुभूतमरणधर्मकस्यैपा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । स चाय