________________
[१७] भाष्यम्-अनित्यकार्ये नित्यख्यातिः, तद्यथा-ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकसः इति । तथाऽशुचौ परमबीभत्से काये-" स्थानादीजादुपष्टम्भान्नि:स्यन्दानिधनादपि । कायमाधेयशौचत्वात्पण्डिता घशुचिं विदुः ॥१॥” इत्यशुचौ शुचिख्यातिदृश्यते । नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्र भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति, कस्य केनाभिसंबन्धः? भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः । तथा दुःखे सुखख्यातिं वक्ष्यति, " परिणामतापसंस्कारदुःखै - णवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः" [२. १५.] इति, तत्र सुखख्यातिरविद्या । तथाऽनात्मन्यात्मख्याति:वाह्योपकरणेपु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनसि अनात्मन्यात्मख्यातिरिति । तथैतदन्यत्रोक्तम्-" व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य संपदमनु नन्दत्यात्मसंपदं मन्वानः, तस्य चापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोप्रतिबुद्धः" इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति । तस्याश्वामित्रागोष्पदवद्वस्तुसतत्वं विजेयम् । यथा नामित्रो मित्राभावो न मित्रमानं किंतु तद्विरुद्धः