________________
[१६] पहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथं ! रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च कचिद् दृश्यमानोन विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इति अन्यासु स्त्रीपु विरक्ता, किन्तु तत्र रागो लब्धवृत्तिः, अन्यत्र भविष्यद्वत्तिरिति स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः, सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेशः ? इति, उच्यते-सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वं, यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जनेनाभिव्यक्त इति सर्व एवैते क्लेशा अविद्याभेदाः। कस्मात् १ सर्वेषु अविद्यैवाभिलवते । यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशाः, विपर्यासप्रत्ययकाले उपलभ्यन्ते, क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥
(य०)-अनाविद्यादयो मोहनीयकर्मण औदायिकभावविशेषाः । तेषां प्रसुप्तत्वं तज्जनककर्मणोऽबाधाकालापरिक्षयेण कर्मनिषकाभावः । तनुत्वमुपशमः क्षयोपशमो वा। विच्छिन्नत्वं प्रतिपक्षप्रकृत्युदयादिनाऽन्तरितत्वम् । उदारत्वं चोथ्यावलिकाप्राप्तत्वम्, इत्यवसेयम् ।। अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्म
ख्यातिरविद्या ॥२-५॥