________________
[१५] (य०)-"बाह्यं तपः परमदुश्वरमाचरध्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम् । " इत्यस्मदीयाः ॥ सर्वत्रानुष्ठाने मुख्यप्रवर्तकशास्त्रस्मृतिद्वारा तदादिप्रवर्तकपरमगुरोह्रदये निधानमीश्वरप्रणिधानम् । तदुक्तम्-" अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र शवि । हत्यस्थिते च तस्मिन् नियमावर्वार्थसंसिद्धिः ॥ १॥" इत्यादि, इत्यस्मन्मतम् ।। समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२-२॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः॥२-३॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदारा
णाम् ॥ २-४ ॥ भाष्यम्-अनाविद्या क्षेत्रं प्रसवभूभिरुत्तरपामस्मितादीनां चतुर्विकल्पितानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्रका प्रसुप्तिः १ चेतसि शक्तिमानप्रतिष्ठानां बीजभावोपगमः, तस्य प्रवोध आलम्बने संमुखीभावः, प्रसंख्यानवतो दग्धकेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्वरमदेह इत्युच्यते । तत्रैव सा दग्धवीजभाषा पञ्चमी क्लेशावस्था, नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोधः इत्युक्ता प्रसुप्तिर्दग्धवीजानामप्ररोहश्च । तनुत्वमुच्यते-प्रतिपक्षभावनो