________________
वीजापुर जिला ।
[ ६५
नयगत राज्यारम्भयत्ने न सार्द्धं निजमतनु च राज्यं जीवितं चोज्झतिस्म ॥ तावच्छत्रभंगे जगदखिल मरात्यन्धकारोपरुद्धं (८) यस्यासह्य प्रताप द्युति ततिभिरिघाक्क्रान्त मासीत्प्रभातम् नृत्त्यद्विद्युत्पताकैः प्रजविनि मरुति क्षुण्ण पर्यंत भागैर्गर्जद्भिर्व्वारिवासै ( है ) रलिकुल मलिनं व्योमयातंकदावा || लब्ध्वा कालं भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरद निकरैरुत्तराम्भोधिरथ्याः यस्यानीकैर्युधि भय रसज्ञत्वमेक-प्रयातस्तत्रावाप्तम्फलमुपकृतस्या (९) परेणापि सद्यः ॥ वरदातुङ्ग तरङ्ग रंग विलस इंसानदीमेखला बनवासीमवमृद् नतस्सुरपुर प्रस्पर्द्धिनीं सम्पदा महता यस्य वलार्णवेन परितस्संछादितोर्व्वीतलं स्थलदुर्गञ्जलदुर्ग तामिवगतं तत्तत्क्षणे पश्यताम् ॥ गंगाम्बु--पीत्वा व्यसनानि सप्त हित्वा पुरोपार्जित संपदो पि यस्यानुभावोपनतास्सदा सन्ना - (१०) सन्नसेवामृतपान शौण्डाः कोंकणेषु यदादिष्ट चण्डदण्डाम्बुवीचिभिः उदस्तास्तरसा मौर्य पल्वलाम्बुसमृद्धयः । अपरजलधेर्लक्ष्मीं यस्मित्पुरम्पुरभित्प्रभे मदगजघंटाकोरे नवां शतैरवमृद्नति जलद पटलनीका कीर्णन्नवोत्पल मेचकज्जलनिधिरिव व्योम व्योज समो भवदम्बुनिधिः ॥ प्रतापोपनता यस्य लाट मालय गूर्ज्जराः दण्डोपनतसामन्त चर्य्या वर्य्या इवाभवन् ॥ अपरिमित विभूति स्फीत सामन्तसेना मुकुटमणि मयूखाक्क्रान्त पादारविन्दः युधि पतित गजेन्द्रानीक वीभत्सभूतो भयविगलित हर्षो येन चाकारि हर्षः ॥ भव मुरुभिरनीकै शशा (१२) सतो यस्य रेवा विविधपुलिन शोभा वन्ध्य बिन्ध्योपकंठा अधिकतर मराजत्स्वेन तेजो महिम्ना शिखरिभिरिभ वर्ज्या वर्ष्म णां स्पर्द्धयेव ॥ विधिवदुपचिता भिश्शक्तिभिश्शक्रकल्पस्तिसृभिरपि गुणौघैस्स्वैश्च