________________
६६ ] मुंबईप्रान्तके प्राचीन जैन स्मारक ।
महाकुलाद्यैः अनमदधिपतित्त्वं यो महाराष्ट्रकाणां नवनवति सहश्र ग्रामभाजां त्रयाणां गृहिणां स्व (१३) स्व गुणैस्त्रिवर्गतुङ्गा विहितान्य क्षितिपाल मानभंगाः अभवन्नुपजात भीति लिंगा यदनीकेन सको (स) ला कलिङ्गाः पिष्टं पिष्टपुरं येन जातं दुर्गम दुर्गामञ्चित्रं यस्य कलेर्वृत्तं जातं दुर्गमदुर्गमम् ॥ सन्नद्ध वारण घटस्थ गितान्तरालम् नानायुधक्षतनर रक्षतजाङ्गरागम् आसीज्जलं यदव मर्दित मगर्भार्केणा लमम्बरमिवोर्ज्जित सान्ध्य रागम् || उद्धतामल चामरध्वज शतच्छात्रान्धकारैव्र्वलैः शौर्योत्साह रसोद्धतारि मथनैम्मलादि भिष्टविधैः आक्कान्तात्म बलोन्नतिम्बल रजस्सञ्छन्न कांचीपुर : प्राकारान्तरित प्रताप मकरोद्यः पल्लवानाम्पतिम् ॥ कावेरी दृत शफरी विलोल नेत्रा चोलानां सपदि जयोद्यतस्य यस्य प्रयोतन्मद् गजसे (१५) तुरुद्ध नीरा सस्पर्श परिहरतिस्म रत्नराशेः । चोलकेरल पाण्ड्यानाम् यो भूत्तत्र महार्द्धये पछवानीक नीहारतुहिनेतर दीधितिः ॥ उत्साह प्रभु मंत्र शक्ति सहिते यस्मिन्समंता दिशो जित्वा भुमिपतीन्विसृज्य महितानाराध्य देवद्विजान् वातापीन्नगरीम्प्रविश्य नगरीमेका मिवोर्व्वीमिमाम् चञ्चन्नीरधिनील नीर परिखां (१६) सत्याश्रये शासति || त्रिंशत्सु त्रिसहश्रेषु भारतादाहवादितः सप्ताब्द शत युक्तेषु तेष्ववेषु पञ्चसु ॥ पञ्चाशत्सु कलौ काले षट्सु पञ्च शतासु च । समासु समतीतासु शकानामपि भूभूजाम् ॥ तस्याम्बुधित्रय निवारित शासनस्य (१) । सत्त्याश्रयस्य परमाप्तवता प्रसादं शैलंजिनेन्द्र भवनम्भवनम्नहिम्नान्निर्म्मापितम्मतिमता रविकीर्तिनेदम् ॥ प्रशस्ते र्व्वसतेश्चास्याः जिनस्य त्रिजगद् गुरो कर्त्ता कारयिता चापि रविकीर्ति कृती स्वयम् ॥ ये नायोजितवेश्म स्थिर मर्त्यविधौ विवेकिना जिनवेश्म स विजयतां रविकीर्ति कविता (१८) श्रितकालिदास भारविकीर्त्तिः ।