________________
२९
न्यायविनिश्चयविवरणे एवं स्वरूपेऽपि प्रसङ्गात् । ततो मरीचिरर्थ एव । जलं तर्हि किं स्यादिति चेत् ? ग्राह्यादिविभागवन्न किञ्चिदिति ब्रूमः । ततः प्रत्यक्षादर्थसाधनोषपत्तेः स्थितमेतत्- 'अतश्च' इत्यादि । यदि चायं निर्बन्धो न ततस्तत्साधनमिति तथापि तदाह
तभावेऽपि तद्वादस्यान्यथानुपपत्तितः । इति । ५ तस्यप्रत्यक्षस्यार्थविषयस्या भावस्तस्मिन्नपि न केवलं तद्भावे बहिरर्थानामपि सत्ता
प्रसाध्यत इति सम्बन्धः । कुत एतत् ? तद्वादस्य तस्मिन् विज्ञाने वादः तत्साधनस्य यथा "दर्शनोपाधिरहितस्य" [प्र० वा० २।३३५] इत्यादि', तस्मिन् वा बहिरर्थे वादः तदूषणस्य यथा “यथा कथञ्चित्" [प्र० वा० २।३५३ ] इत्यादि, तस्य अन्यथा बहिरर्थसत्ताभावप्रकारेण अनुपपत्तितो घटनाभावात् । अयमत्र प्रयोगः-'सन्ति बहिराः साधनदूषणप्रयोगान्यथानुषपत्तेः' इति ।
अभावे सर्वथार्थस्य तद्विशेषः कथं भवेत् । तत्प्रयोगो यतो ज्ञानसाधनं वाऽर्थदूषणम् ॥ १२५८ ॥ व्यवहारप्रसिद्ध्या चेत्तत्प्रयोगोऽनुमन्यते । कः पुनर्व्यवहारार्थः ? कल्पना यदि ; कल्पितात् ॥ १२५९ ॥ कुतश्चित्सिद्धिरर्थस्य बुद्धर्वा किन्न दूषणम् ? । न हि कल्पनया कस्याप्यस्ति वक्तुर्दरिद्रता ॥ १२६० ॥ विपक्षमव्यवच्छिन्दस्तत्प्रयोगस्तथा सति । एकान्तेन स्वपक्षस्य कथं नामास्तु साधकः ? ॥ १२६१ ॥ तन्न कल्पितरूपोऽयं परमार्थो भवन्नपि ।
बोध एवेति चेत्तस्य परार्थत्वं कथं भवेत् ? ॥ १२६२ ॥ - यदि तत्प्रयोगः प्रतिपादकस्यैव बोधः; कथमसौ परार्थः ? परस्य ततस्तद्विषयप्रतिपत्तेरसम्भवादतिप्रसङ्गात् । प्रतिपाद्यस्यैवेति चेत् ; कुतोऽसौ तस्य ? स्वत एवेति चेत् ; न; प्रतिपादकस्य वैफल्यात् । तत एवेति चेत् ; न ; तस्याप्यप्रयोगकृतस्तदनुषपत्तेः । प्रयोगकृत इति चेत् ; न; तत्प्रयोगस्यापि तद्बोधत्वे परार्थत्वासम्भवात् । प्रतिपाद्यबोधत्वे तु पूर्ववत्प्रसङ्गः 'कुतोऽसौ तस्य'
इत्यादिः, अनवस्था च । भवतु स्वार्थ एवायं न परार्थः परस्यैवाभावादिति चेत् ; कुतस्तदभावः ? २५ त्वयाऽनुपलम्भाच्चेत् ; परेणानुपलम्भात्तवाप्यभावः। स्वयमुपलम्भान्नेति चेत् ; तत एव परस्यापि न भवेत् । सतोऽपि परस्याविनेयत्वान्न तदर्थोऽयमिति चेत् ; न ; विनेयस्यापि लोके सम्भवात् ।
"विनेयराजहंसास्ते सन्त्येव हि जगन्मताः।
निरस्य जडसम्पर्कं ये गृह्णन्ति वचोऽमृतम् ॥" [ इत्युक्तत्वात् । तन्न स्वार्थ एवायम् । स्वार्थोऽपि कुतोऽयमुत्पन्नः ? स्वशक्तित इति चेत् ; न
१ "दर्शनोपाधिरहितस्याग्रहेऽग्रहात् तद्ग्रहे ग्रहात् । दर्शनं नीलनिर्भासं नार्थो बाह्योऽस्ति केवलम् ॥"-प्र० वा०।२ साधनदषणप्रयोगः । ३ प्रतिपादकबोधत्वे । ४ वचो धृतम् आ०, ब०, प० ।